देवदानव-संवादे मध्यमाने महोदधौ। 
उत्पन्नोऽसि तदा कुम्भ! विधृतो विष्णुना स्वयम्॥
त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः। 
त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः॥
शिवः स्वयं त्वमेवाऽसि विष्णुस्त्वं च प्रजापतिः। 
आदित्या वसवो रुद्रा विश्वेदेवाः सपैतृकाः॥
त्वयि तिष्ठन्ति सर्वेऽपि यतः कामफलप्रदाः। 
त्वत्प्रसादादिमं यज्ञं कर्तुमीहे जलोद्भव। 
सान्निध्यं कुरु मे देव! प्रसन्नो भव सर्वदा॥
नमो नमस्ते स्फटिकप्रभाय सुश्चेतहाराय सुमङ्गलाय। 
सुपाशहस्ताय झषासनाय जलाधिनाथाय नमो नमस्ते॥

+977-9844768353 +977-9823646855